निजादीनां त्रयाणां अभ्यासस्य गुणो भवति श्लौ सति। णिजिर् नेनेक्ति। विजिर् वेवेक्ति। विष्लृ वेवेष्टि। त्रिग्रहणम् उत्तरार्थम्, एषां हि वृत्करणम् समाप्त्यर्थं पठ्यते एव इति। श्लौ इति किम्? निनेज।
बहुवचननिर्देशादाद्यर्थो गम्यत इत्यत आह--"एवाम्()" इत्यादि।
"णिजिर्? शौचपोषणयोः" (धा।पा।१०९३),
"विजिर्? पृथग्भावे" (धा।पा।१०९४), "विष्लृ व्याप्तौ" (धा।पा।१०९५)--इत्येते णिजादयो जौहोत्यादिकाः।
"त्रिग्रहणमुत्तरार्थम्()" इति। "भृञामित्()"
७।४।७६ इतीत्त्वम्()। त्रयाणामेव यथा स्यादधिकानां मा भूदित्येवमर्थं त्रिग्रहणम्()।
एतदर्थमपि कस्मान्न भवति? इत्यत आह--"एवाम्()" इत्यादि।
यद्यत्र त्रिग्रहणं क्रियते निजादीनामन्ते बृत्करणं किमर्थम्()? एतद्गणकारः प्रष्टव्यः, न सूत्रकारः। "अन्यो हि गणकारोऽन्यश्च सूत्रकारः" इत्युक्तं प्राक्। गणकारेणापि वैचित्र्यार्थं वृत्करणं कृतमिति वेदितव्यम्()। विचित्रा हि गणस्य कृतिर्गणकारेण।
अथ गुणग्रहणं किमर्थम्(),
एकार एव नोच्येत? अशक्यमेवेदं वक्तुम्(); एवं ह्रुच्यमाने द्वेव्यमपि कश्चिद्विजानीयात्()--हलादिशेषापवादोऽयं निजादीनामेकर इति। गुणग्रहणे हि संज्ञाविधाने नियम इतीक एव भवति, हलस्तु हलपादिशेषेण निवृत्तिर्भवति॥